|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.37. अध्यायः 037
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरेण व्यासोपदिष्टमन्त्रोपदेशपूर्वकमस्त्रग्रहणाय स्वर्गंप्रत्यर्जुनस्य प्रस्थापनम् ॥ 1 ॥ स्वर्गं प्रस्थितेनार्जुनेन यध्येपथमिन्द्रकीलगिरौ तपश्चर्या ॥ 2 ॥ तत्र मुनिरूपिण इन्द्रस्य दर्शनम् ॥ 3 ॥ दिव्यास्त्रदानं याचितेनेन्द्रेणार्जुनंप्रति तपसा रुद्रप्रसादनानन्तरमस्त्रलाभाय स्वर्गागमनचोदना ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-37-0x(1865)(17128)
कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः।
संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत् ॥ 3-37-1(17129)
विविक्ते विदितप्रज्ञमर्जुनं पुरुषर्षभ।
सान्त्वपूर्वं स्मितं कृत्वापाणिना परिसंस्पृशन् ॥ 3-37-2(17130)
स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः।
धनंजयंधर्मराजो रहसीदमुवाच ह ॥ 3-37-3(17131)
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत।
धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः ॥ 3-37-4(17132)
दैवं ब्राह्मं चासुरं च सप्रयोगचिकित्सितम्।
सर्वास्त्राणां प्रयोगं च अभिजानन्ति कृत्स्नशः ॥ 3-37-5(17133)
ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः।
संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते।
सर्वयोधेषु चैवास्य सदा प्रीतिरनुत्तमा ॥ 3-37-6(17134)
आचार्या मानितास्तुष्टाः शान्तिं व्यवहरन्न्युत।
शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः ॥ 3-37-7(17135)
अद्य चेयं मही कृत्स्ना दुर्याधनवशानुगा।
सग्रामनगरा पार्थ ससागरवनाकरा ॥
भवानेव प्रियोऽस्माकं त्वयि भारः समाहितः ॥ 3-37-8(17136)
अत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम।
कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया ॥ 3-37-10(17137)
गृहीतया तया सम्यग्जगत्सर्वं प्रकाशते।
तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः ॥ 3-37-11(17138)
देवतानां यथाकालं प्रसादं प्रतिपालय।
तपसा योजयात्मानमुग्रेण भरतर्षभ ॥ 3-37-12(17139)
धनुष्मान्कवची खङ्गी मुनिः साधुव्रते स्थितः।
न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् ॥ 3-37-13(17140)
इनद्रे ह्यस्त्राणि दिव्यानि समस्तानि धनंजय।
वृत्राद्भीतैर्बलं देवैस्तदा शक्रे समर्पितम् ॥ 3-37-14(17141)
तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे।
`अनेन ब्रह्मणा तात सर्वं संप्रतिपद्यते ॥' 3-37-15(17142)
शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति।
दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम् ॥ 3-37-16(17143)
वैशम्पायन उवाच। 3-37-17x(1866)
एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः ॥ 3-37-17(17144)
दीक्षितं विधिना तेन यतवाक्कायमानसम्।
अनुजज्ञे तदा वीरं भ्राता भ्रातरमग्रजः ॥ 3-37-18(17145)
निदेशाद्धर्मराजस्य द्रष्टुकामः पुरंदरम्।
धनुर्गाण्डीवमादाय तथाऽक्षय्ये महेषुधी ॥ 3-37-19(17146)
कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान्।
हत्वाऽग्निं ब्राह्मणान्निष्कैः स्वस्तिवाच्य मह्यभुज ॥ 3-37-20(17147)
प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः।
वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदैक्षत ॥ 3-37-21(17148)
तं दृष्ट्वा तत्रकौन्तेयं प्रगृहीतशरासनम्।
अब्रुवन्ब्रह्मणाः सिद्धा भूतान्यन्तर्हितानि च ॥ 3-37-22(17149)
क्षिप्रमाप्नुहि कौन्तेय मनसा यद्यदिच्छसि।
संसाधयस्व कौन्तेय ध्रुवोस्तु विजयस्तव ॥ 3-37-23(17150)
अब्रुवन्ब्राह्मणाः पार्थमिति कृत्वा जयाशिषः।
`सिद्धचारणसङ्घाश्च गन्धर्वाश्च तमब्रुवन् ॥ 3-37-24(17151)
स्वस्तिव्रतमुपाधत्स्व सङ्कल्पस्तव सिद्ध्यताम्।
मनोरथाश्च ते सर्वे समृद्ध्यन्तां महारथ ॥ 3-37-25(17152)
एवमुक्तोऽभिवाद्यैतान्बद्धाञ्जलिपुटस्तथा।
तपोयोगमनाः पार्थः पुरोहितमवन्दत ॥ 3-37-26(17153)
ततः प्रीतमना जिष्णुस्तावुभावभ्यवन्दत।
सहोदरावतिरथौ युधिष्ठिरवृकोदरौ ॥ 3-37-27(17154)
तं क्लान्तमनसौ पूर्णमभिगम्य महारथौ।
यमौ गाण्डीवधन्वानमभ्यवादयतामुभौ ॥ 3-37-28(17155)
अभिवाद्य तु तौ वीरावूचतुः पाकशासनिम्।
अवाप्तव्यानि सर्वाणि दिव्यान्यस्त्राणि वासवात्। 3-37-29cअस्त्राण्याप्नुहि कौन्तेय मनसा यद्यदिच्छसि ॥ 3-37-29(17156)
गिरो ह्यशिथिलाः सर्वा निर्दोषाः संमताः सताम्।
त्वमेकः पाण्डवेष्वद्य संप्राप्तोसि धनञ्जय ॥ 3-37-30(17157)
न चाधर्मविदं देवा नासिद्धं नातपस्विनम्।
द्रष्टुमिच्छन्ति कौन्तेय चलचित्तं शठं न च ॥ 3-37-31(17158)
रोरूयमाणः कटुकमीर्ष्यकः कटुकाक्षरः।
शठकः श्लाघकः क्षेप्ता हन्ता च विचिकित्सिता ॥ 3-37-32(17159)
विश्वस् हन्ता मायावी क्रोधनोऽनृतभाषिता।
अत्याशी नास्तिकोऽदाता मित्रध्रुक्सर्वशङ्कितः ॥ 3-37-33(17160)
आक्रोष्टा चातिमानी च रौद्रो लुब्धोऽथ लोलुपः।
स्तेनश्च मद्यपश्चैव भ्रूणहा गुरुतल्पगः ॥ 3-37-34(17161)
संभावितात्मा चात्यर्थं नृशंसः पुरुषश्च यः।
नैते लोकानाप्नुवन्ति निर्लोकास्ते धनञ्जय ॥ 3-37-35(17162)
आनृशंस्यमनुक्रोशः सत्यं करुणवेदिता।
दमः स्थितिर्धृतिर्धर्मः क्षमा कृत्यमनुत्तमम् ॥ 3-37-36(17163)
दया शमश्च धर्मश्च गुरुपूजा कृतज्ञता।
मैत्रता द्विजभक्तिश्च वसन्ति त्वयि फल्गुन।
व्यपेक्षा सर्वभूतेषु कृपा दानं मतिः स्मृतिः ॥ 3-37-37(17164)
तस्मात्कौरव्य शक्रेण समेष्यसि धनञ्जय।
त्वादृशेन हि देवानां श्लाघनीयः समागमः ॥ 3-37-38(17165)
सुहृदां सोदराणां च सर्वेषां भरतर्षभ।
त्वं गतिः परमा तात वृत्रहा मरुतामिव ॥ 3-37-39(17166)
तस्मिंस्त्रयोदशे वर्षे भ्रातरः सुहृदश्च ते।
सर्वे हिसंश्रयिष्यन्ति बाहुवीर्यं महाबल ॥ 3-37-40(17167)
स पार्थ पितरं गच्छ सहस्राक्षमरिन्दम।
मुष्टिग्रहणमादत्स्व सर्वाण्यस्त्राणि वासवात् ॥ 3-37-41(17168)
शतशृङ्गे महाबाहो मघवानिदमब्रवीत्।
शृण्वतां सर्वभूतानां त्वामुपाघ्राय मूर्धनि ॥ 3-37-42(17169)
विदितः सर्वभूतानां दिवं तात गमिष्यसि।
प्राप्य पुण्यकृतां लोकान्रंस्यसे जयतांवर ॥ 3-37-43(17170)
मानितस्त्रिदशैः पार्थ विहृत्य सुसुखं दिवि।
अवाप्यपरमास्त्राणि पृथिवीं पुनरेष्यसि ॥ 3-37-44(17171)
गुणांस्ते वासवस्तात खाण्डवं दहति त्वयि।
शृण्वतां सर्वभूतानां पुनः पुनरभाषत ॥ 3-37-45(17172)
तां प्रतिज्ञां नरश्रेष्ठ कर्तुमर्हसि वासवीम्।
कंचिद्देशमितः प्राप्य तपोयोगमना भव ॥ 3-37-46(17173)
कर्तुमर्हसि कौरव्य मघवद्वचनं हितम्।
दीक्षित्वाऽद्यैव गच्छ त्वं द्रष्टाऽसि त्वं पुरन्दरम् ॥ 3-37-47(17174)
तौ परिष्वज्य बीभत्सुः कृष्णामामन्त्र्य चाप्युभौ।
मनांस्यादाय सर्वेषां प्रयातः पुरुषर्षभः ॥' 3-37-48(17175)
तं तथा प्रस्थितं वीरं सिंहस्कन्धोरसं तदा।
प्राञ्जलिः पाण्डवंकृष्णा देवानां कुर्वती नमः।
वाग्भिः परमशुद्धाभिर्मङ्गलाभिरभाषत् ॥ 3-37-49(17176)
नमो धात्रे विधात्रे च स्वस्ति गच्छ वनाद्वनम्।
`धर्मस्त्वां जुषतां पार्थ भास्करश्च विभावसुः।
ब्रह्मा त्वां ब्राह्मणाश्चैव पालयन्तु धनञ्जय ॥' 3-37-50(17177)
ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनमास्थितः।
प्रपद्येथा वसूव्रुद्रानादित्यान्समरुद्गणान्।
विश्वेदेवांस्तथा साध्याञ्शान्त्यर्थं भरतर्षभ ॥ 3-37-51(17178)
स्वस्ति तेस्त्वान्तरिक्षेभ्यो दिव्येभ्यो भरतर्षभ।
पार्थिवेभ्यश्च सर्वेभ्यो ये केचित्परिपन्थिनः ॥ 3-37-52(17179)
अवरोधाद्वने वासात्सर्वस्वहरणादपि।
इदं दुःखतरं मन्ये पुत्रेभ्यश्च विवासनात् ॥ 3-37-53(17180)
मास्माकं क्षत्रियकुले जातुचित्पुनरुद्भवः।
ब्राह्मणेभ्यो नमस्यामि येषां नायुधजीविका ॥ 3-37-54(17181)
इदं मे परमं दुःखं यः स पापः सुयोधनः।
दृष्ट्वा मां गौरिति प्राह प्रहसन्राजसंसदि ॥ 3-37-55(17182)
तस्माद्दुःखादिदं दुःखं गरीय इतिमे मतिः।
यत्तत्परिषदो मध्ये बह्वयुक्तमभाषत ॥ 3-37-56(17183)
`ध्वंसितः स्वगृहेभ्यश्च राष्ट्राच्च भरतर्षभ।
वने प्रतिष्ठितो भूत्वा सौहार्दादवतिष्ठसे ॥' 3-37-57(17184)
जेता यः सर्वशत्रूणां यः पावकमतर्पयः।
जनस्त्वां पश्यतीदानीं गच्छन्तं भरतर्षभ ॥' 3-37-58(17185)
अस्मिन्नूनं महारण्ये भ्रातरः सुहृदश्च ते।
त्वत्कथाः कथयिष्यन्ति चारणा ऋषयस्तथा ॥ 3-37-59(17186)
यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनञ्जय।
तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि ॥ 3-37-60(17187)
`वसुदेवस्वसा देवी त्वामार्या पुनरागतम्।
पश्यतु त्वां पृथा पार्थ सहस्राक्षमिवादितिः' ॥ 3-37-61(17188)
नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे।
रंस्यन्ते तव कर्माणि कीरत्यन्तः पुनः पुनः ॥ 3-37-62(17189)
न च नः पार्थ भोगेषु न धने नोत जीविते।
तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि ॥ 3-37-63(17190)
त्वयि नः पार्थ सर्वेषां सुखदुःखे प्रतिष्ठते।
जीवितं मरणं चैव राज्यमैश्वर्यमेव च ॥ 3-37-64(17191)
आपृष्टो नोसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव।
कृतास्त्रं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ॥ 3-37-65(17192)
बलवद्भिर्विरुद्धं न कार्यमेतत्त्वयाऽनघ।
प्रयाह्यविघ्नेयैवाशु विजयाय महाबल ॥ 3-37-66(17193)
ह्रीः श्रीः कीर्तिर्धृतिः पुष्टिरुमा लक्ष्मीः सरस्वती।
इमा वै तव पान्थस् पालयन्तु धनञ्जय ॥ 3-37-67(17194)
वैशम्पायन उवाच। 3-37-68x(1867)
एवमुक्त्वाऽऽशिषः कृष्णा विरराम यशस्विनी। 3-37-68(17195)
ततःप्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः।
प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः ॥ 3-37-69(17196)
`शनैरिव दिशं वीर उदीचीं भरतर्षभ।
संहरंस्तरसा वृक्षाँल्लता वल्लीश्च भारत।
असज्जमानो वृक्षेषु जगाम सुमहाबलः ॥' 3-37-70(17197)
तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः।
युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः ॥ 3-37-71(17198)
सोऽगच्छत्पर्वतांस्तात तपोधननिषेवितान्।
दिव्यं हैमवतं पुण्यं देवजुष्टं परंतपः ॥ 3-37-72(17199)
अगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः।
मनोजवगतिर्भूत्वा योगयुक्तो यथाऽनिलः ॥ 3-37-73(17200)
हिमवन्तमतिक्रम्य गन्धमादनमेव च।
अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः ॥ 3-37-74(17201)
इन्द्रिकीलं समासाद्य ततोऽतिष्ठद्धनंजयः।
`गत्वा स षडहोरात्रान्सप्तमेऽहनि पाण्डवः ॥ 3-37-75(17202)
प्रस्थेन्द्रकीलस्य शुभे तपोयोगपरोऽभवत्।
ऊर्ध्वबाहुर्न चाङ्गानि प्रास्पन्दयत किंचन ॥ 3-37-76(17203)
समाहितात्मा नियतः सहस्राक्षसुतोऽच्युतः'।
अन्तरिक्षे स शुश्राव तिष्ठेति स वचस्तदा ॥ 3-37-77(17204)
तच्छ्रुत्वा सर्वतो दृष्टिं चारयामास रपाण्डवः।
अथापश्यत्सव्यसाची वृक्षमूले तपस्विनम् ॥ 3-37-78(17205)
ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम्।
सोऽब्रवीदर्जुनं तत्रस्थितं दृष्ट्वा महातपाः ॥ 3-37-79(17206)
कस्त्वं तातेह संप्राप्तो धनुष्मान्कवची शरी।
निबद्धाऽसितलत्राणः क्षत्रधर्ममनुव्रतः ॥ 3-37-80(17207)
नेह शस्त्रेण कर्तव्यं शान्तानामेष आलयः।
विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् ॥ 3-37-81(17208)
नेहास्ति धनुषा कार्यं न संग्रामोऽत्र कर्हिचित्।
निक्षिपैतद्धनुस्तात प्राप्तोसि परमां गतिम् ॥ 3-37-82(17209)
इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम्।
तथा हसन्निवाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत्। 3-3783c न चैनं चालयामास धैर्यात्सुधृतनिश्चयम् ॥ 3-37-83(17210)
तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव।
वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन ॥ 3-37-84(17211)
एवमुक्तः सहस्राक्षं प्रत्युवाच धनंजयः।
प्राञ्जलिः प्रणतो भूत्वा सूरः कुरुकुलोद्वहः ॥ 3-37-85(17212)
ईप्सितो ह्येष वै कामो वरं चैनं प्रयच्छ मे।
त्वत्तोऽद्य भगवन्नस्त्रंकृत्स्नमिच्छामि वेदितम् ॥ 3-37-86(17213)
प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव।
इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनंजय ॥ 3-37-87(17214)
कामान्वृणीष्व लोकांस्त्वं प्राप्तोसि परमां गतिम्।
एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः ॥ 3-37-88(17215)
न लोभान्न पुनः कामान्न देवत्वं पुनः सुखम्।
न च सर्वामरैश्वर्यं कामये त्रिदशाधिप ॥ 3-37-89(17216)
भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च।
अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः ॥ 3-37-90(17217)
एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम्।
सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः ॥ 3-37-91(17218)
यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम्।
तदा दाताऽस्मि ते तात दिव्यान्यस्त्राणि सर्वशः ॥ 3-37-92(17219)
क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः।
दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि ॥ 3-37-93(17220)
इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं पुनः।
अर्जुनोप्यथ तत्रैव तस्थौ योगसमन्वितः ॥ 3-37-94(17221)
इति श्रीमन्महाभारेत अरण्यपर्वणि अर्जुनाभिगमनपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-37-2 विविक्तेऽवितथप्रज्ञमिति क. पाठः ॥ 3-37-5 दैवं इन्द्रवरुणाद्यस्त्रम्। ब्राह्मं ब्रह्मास्त्रम्. चिकित्सा परप्रयुक्तानां प्रतीकारः ॥ 3-37-6 गुरुवत् गुरुष्विव ॥ 3-37-7 शान्तिं दोषपरिहारं कर्तुं व्यवहरन्ति यतन्ते। शक्तिं सामर्थ्ये न हापयिष्यन्ति त्याजयिष्यन्ति अपितु उद्दीपयिष्यन्ति ॥ 3-37-10 उपनिषत् रहस्यविद्या ॥ 3-37-11 तया प्रयुक्तया सम्यगिति झ. पाठः ॥ 3-37-12 प्रतिपालय प्राप्नुहि ॥ 3-37-13 मार्गं न ददत् अददत् ॥ 3-37-14 बलं सर्वास्त्ररूपम् ॥ 3-37-15 ततः शक्रात् ॥ 3-37-16 दीक्षितः स्वीकृतव्रतः ॥ 3-37-17 अध्यापयत विद्ययायोजितवान् ॥ 3-37-18 अनुजज्ञे गमनाय अनुज्ञातवान् ॥ 3-37-51 ज्येष्टापचयी ज्येष्ठपूजनशीलः ॥ 3-37-55 गौरिति बहुपुरुषभोग्येत्युपहासः ॥ 3-37-56 अभाषत शत्रुर्यत् तस्माद्दुःखादिदं त्वद्वियोगजमिति पूर्वेण संबन्धः ॥ 3-37-69 प्रातिष्ठत महाबाहुः सुमनाः प्रीतिमांस्तदेति क. पाठः ॥ 3-37-71 शुष्मिणओ बलिनः ॥ 3-37-81 विनीतौ, जितौ क्रोधहर्षौ यैः ॥ 3-37-88 कामान् काम्यन्त इति व्युत्पत्त्या इष्टान् ॥ 3-37-90 अप्रतियात्यानिस्तीर्य ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|